वांछित मन्त्र चुनें

ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑: । क्रत्वा॒ वयो॒ वि ता॒र्यायु॑: सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥

अंग्रेज़ी लिप्यंतरण

evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ | kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ ||

पद पाठ

ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ । क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥ १०.१४४.६

ऋग्वेद » मण्डल:10» सूक्त:144» मन्त्र:6 | अष्टक:8» अध्याय:8» वर्ग:2» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव) इस प्रकार (इन्द्रः) आत्मा (इन्दुना) वीर्य पदार्थ से (देवेषु चित्) इन्द्रियों में भी (महि त्यजः) महान् तेज को (धारयते) धारण करता है (क्रत्वा) संयम कर्म से (वयः-आयुः) जीवन और दीर्घ आयु को (वि तारि) प्रवृद्ध करता है (सुक्रतो) हे संयमरूप सुष्ठु कर्म से प्राप्त होने योग्य वीर्य पदार्थ (अयम्) यह तू (अस्मत्) हमारे द्वारा (क्रत्वा) कर्म से (आ सुतः) भलीभाँति प्राप्त हुआ अभीष्ट को सिद्ध कर ॥६॥
भावार्थभाषाः - आत्मा संयम से वीर्य की रक्षा करके द्वारा इन्द्रियों में तेज धारण करता है, जीवन और आयु को बढ़ाता है, सुरक्षित वीर्य द्वारा अभीष्ट कर्मफल सिद्ध होता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव) एवम् (इन्द्रः) आत्मा (इन्दुना) वीर्यपदार्थेन (देवेषु चित्-महि त्यजः-धारयते) इन्द्रियेषु महत् तेजो धारयति (क्रत्वा) संयमकर्मणा (वयः-आयुः-वि तारि) जीवनमायुश्च विशेषेण वर्धय (सुक्रतो) यस्मै सुष्ठु क्रतुः कर्मकृतं तत्सम्बुद्धौ हे सुष्ठु संयमरूपकर्मणा प्राप्तवीर्यपदार्थ ! (अयम्) एष त्वम् (अस्मत्) अस्माभिः “सुपां सुलुक्०” [अष्टा० ७।१।३९] इति तृतीयायाः लुक् (क्रत्वा-आसुतः) कर्मणा समन्तात् प्राप्तोऽभीष्टं साधय ॥६॥